श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
प्रसन्नः शुद्धः शुभ्रोऽशोऽपांगो यस्याः, अंतबर्हिश्च गामिनी तारका यस्याः सा। विभ्रान्तालक्षणञ्च पूर्वमेबोक्तम्। लोचने विशिनष्टि – प्रणयपरिणताभ्याम्। प्रणयः प्रेम तेन परिणताभ्यां परिणामविशेषं प्राप्ताभ्याम्। यद्वा, प्रणयो गोपीनां सहजसिद्धः परिणतः प्रवृद्धोयाभ्याम्। प्रणयेन प्रेम्ना परितो नमनं याभ्यामिति वा। यत्रक् दृष्टिः पतति तत्र तत्र चैतन्यमात्रस्य प्रेमविह्वलतया कृष्णैकप्रह्वता भवतीत्यर्थः। अत्र स्निग्धा दृष्टिस्तल्लक्षणञ्चोक्तम्। पुनर्विशिनष्टि- श्रीभरालम्बनाभ्याम्। श्रीः शोभा तस्या भरोऽतिशयस्तदालम्बनाभ्यां परमविश्रामस्थलाभ्याम् अत्र कान्ता दृष्टिः तल्लक्षणञ्चोक्तमेव। पुनर्विशिनष्टि प्रतिपदललिताभ्याम्। पदं व्यवसितिर्विविधकेलिरूपो व्यवसायस्तं प्रति, पदम्पदं प्रति वा, ललिताभ्याम्। एतेन सदा सर्वविषयपूर्ण- सुखमद्भ्यामित्यर्थः। पदं व्यवसिति त्राणस्थान- लक्ष्मयांगिवस्तुषु इत्यमरः (3/3/93) अत्र ललिता दृष्टिर्यथा (संगीतरत्नाकरे 7/422)-
पुनः – प्रत्यहं नूतनाभ्यामिति। प्रत्यहं प्रतिदिनमुपलक्षणं चैतत् क्षणलवादीनाम्। नूतनाभ्यां नवाभ्याम् अहन्यहनि पूर्वानुभूतसौंदर्यातिशय- चमत्काराभ्यामित्यर्थः। प्रतिक्षणं नूतनत्वेऽपि प्रत्यहमित्युक्तंलीलाविशेषाभि-प्रायेण अत्र वीरा दृष्टिर्यथा (संगीतरत्नाकरे 7/391-92)
औदार्य-धैर्य- माधुर्य गाम्भीर्य- ललितान्यपि। तेज: शोभाविशेषांश्च सत्वभेदान विवृण्वती॥ पुनर्विशिनष्टि- प्रतिमुहुरधिकाभ्याम्। मुहुर्मुहः प्रतिमुहुः प्रतिबारमधिकमधिकं सुखं याभ्यां ययोर्वा। “सुखशीर्षजलेषु कम्” इति मेदिनी (कान्त 15)। अत्रापि कान्ता दृष्टिः ।।13।। |
टीका टिप्पणी और संदर्भ
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज