मुग्धः सुन्दरमुढ़योरिति विश्वः (धान्त 10) स्मितलक्षणं यथा नाट्लोचने-
- ईषद्विकशितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः।
- अलक्षितद्विजद्वारमुत्तमानां स्मितं भवेत्।।
पुनः कीदृशम्- मदशिखि-पिच्छलाञ्छित-ममनोज्ञ-कचप्रचयम्। मदा मत्ता ये शिखिनो मयूरास्तेषां पिच्छैर्लाञ्छितोंऽकितो मनोज्ञानां सुंदराणां कचानां केशानां प्रचयः समूहो यस्मिंस्तत्। माद्यच्छि-खित्वेन पिञ्छस्य स्फीतता व्यज्यते। माद्यति रसेने माधुर्या-तिशयेन मदयति गोपसुन्दरीर्वा मदः। स चासौ शिखिपिच्छलाञ्छित-मनोज्ञकचप्रचयच्श्रेति यस्येति वा। पुनः कीदृशम्- विपुल-विलोचनम्। विपुले विशाले विशिष्टे विलोलता-मदघूर्णतारुण्यादिना लोचने यस्य तत्। प्राक् समस्तांगमनुभूय श्रीमुखनिरीक्षणं कृतम्, तत्र स्मितामृतादिष्वेव मनो निमग्नमिति समुदायार्थः।।5।।
सुबोधनी
पुनः स्वचेत-सोयोऽग्यतां निवेदयंस्तथैव सलालसं प्रार्थयते- मम चेतसि किमपि पूर्वोक्ता-निर्वचनीये धाम कान्तिपुञ्जं चिरकालं व्यप्योदेतु। कीदृशे-विषय एव विषवद्दाहकत्वाद्विषम्, तथाप्यमृतवदामिषं लोभ्यम्, तस्य ग्रसने गृध्नु लम्पटं यत्तस्मिन्। तर्हि कथं प्रार्थनेत्याशंक्य तस्यैव तन्निदानत्वं व्यञ्जयन्नाह- मधुरतरं यत्स्मितं तदेवामृतं तेन विमुग्धमति मनोहरं मुकाम्बुजं यस्य। तथा विपुले विलोचने यस्य। किंञ्च; यौवनमदयुक्तानां शिखिनां पिञ्छैर्लाञ्छतश्चिह्नितः स्वभावतो मनोज्ञश्च केशसमूहो यस्य। शिखिनां मदनोत्कपिञ्छानां स्फीतत्त्वम्। तन्माधुर्यस्य सर्वलोभनीयत्वात्प्रार्थ्यत इत्यर्थः।।5।।
सारंगरंगदा
पुनरातमाधुर्यस्फूर्त्या ताः प्रति सलालसमाह – मधुरतरेति। पूर्वरीत्येदं किमप्यनिर्वचनीयं धाम मम चेतसि। चिरं चकास्तु। ननु चित्तसन्तापकस्यास्य स्मृति-लालसयाल-मित्यत्र चित्तं तच्च दूषयन्नाह, किदृशे-विशेषेण सिनोति स्वमाधुर्यमधुनि मनोभृंगं बध्नातीति विषयम्। तच्च विषवद्दाहकत्वाद्विषञ्च। तथाप्य-मृतवदामिषं लोभ्यं यदेतद्धाम तस्य यद्ग्रसनं झटित्यात्मसात्करणं तत्र गृध्नु लम्पटं यत्तस्मिन्। तदुक्तम्-
|