- मदशिखण्डि – शिखण्ड – विभूषणं
- मदनमन्थर – मुग्ध – मुखाम्बुजम्।
- व्रजवधू – नयनाञ्जन – रञ्जितं
- विजयतां मम वांग्मय – जीवितम्।। 8।।[1]
अन्वयः – मदशिखण्डिशिखण्डविभूषणम् (मदमत्तशिखिनां यः शिखण्डः पिञ्छं तेन विशिष्टं भूषणम् अलंकृतिः यस्य तत्) मदनमन्थर-मुग्धमुखाम्बुजम् (मदनं कामं मन्थरयति मन्दरशैलवत् स्तम्भयति तन्मुग्धं मनोहरं मुखाम्बुजं यस्य तत्) व्रजवधूनयनाञ्जनरिञ्जितम् (व्रजवधू-नयनाञ्जनेन रञ्जितम्) मम वाङ्मयजीवितम् (मम वाङमयं जीवितं वस्तु) विजयताम् (सर्वोत्कर्षेण वर्तताम्)।।8।।
अनुवाद- मतमत्त शिखिपिच्छ (मोरपंख) जिनके चूड़े का विभूषण है, जिनका मुखकमल देखकर मदन भी मुग्ध होता है- स्तम्भित होता है, व्रजवधुओं के नेत्राञ्जन से जो रञ्जित हैं- मेरे वाक्यों के जीवनस्वरूप उन्हीं श्रीकृष्ण की जय हो।।8।।
कृष्णवल्लभा
एवं श्रीकृष्णमधुरिमाणं भावयंस्तत् साक्षात्कारं प्रार्थयते मदशिखण्डीति- ममं वाङ्मयजीवितं वस्तु विजयंता सर्वोत्कर्षस्वरूपा-वस्थामिविष्करोत्वित्यर्थः। विजयतामिति विपराभ्यां जेरित्यात्मनेपदम् (पा. 1/3/19)। वाङ्मयं वागात्मकं यथा मम तद्रसकेलिगुणाद्यभिधायिनी वाक् तथैवाविर्भवेदित्यर्थः वागधीनमिति वा। यदैवाहं तन्नामादि कीर्तयामि प्रीत्या तदैवाहूतमिव हृद्यायाति। तादृशञ्च जीवितं प्रारूपञ्ज प्राणतुल्मिति नोक्तम्। तस्यैव प्राणानामपि प्राणत्वात्। वस्तुतोऽतिप्रमास्पदत्वात्। अतएवास्य कीर्तनं बिना न जीवनं सफलमिति। यद्वा, वाङ्मयं जीवितं यस्मात् तत्। निजरसविलास-वर्णनेनास्वाद-गोचरीभूय जीवनप्रदमित्यर्थः। तत् किम् विशेषणमर्यादया विशेषयन्नाह – मदेति। मदशिखण्डि शिखण्डविभूषणम्। माद्यतीति मदः। मदोहर्षे धातुः। स चासौ शिखण्डी च प्रशंसायामिन्. तस्य यः शिखण्डः पिच्छं तेन विशिष्टं भूषणमलंकृतिर्यस्य तत्। शिखण्डस्तु पिञ्छबर्हे नपुंसके इत्यमरः (2/5/32)। एतेन विच्छित्तिनामा हावो दर्शिताः। सोदाहरणेन विच्छित्तिलक्षणञ्च उज्ज्वलनीलमणौ- “आकल्पकल्पनाल्पापि विच्छित्तः कान्तिपोषकृत्” इति (उज्ज्वलस्य अनुभाव-प्रकरण-32)। तथा च हरिवंशे (2/11/10)-
|