विषय सूची
श्रीगीतगोविन्दम् -श्रील जयदेव गोस्वामी
दशम: सर्ग:
चतुरचतुर्भुज:
ऊनविंश: सन्दर्भ:
19. गीतम्
देशवराडीरागाष्टतालीतालाभ्यां गीयते।
|
टीका टिप्पणी और संदर्भ
- ↑ अन्वय- अयि चारुशीले (मनोज्ञस्वभावे) प्रिये (प्रेयसि) मयि अनिदानं (अकारणं) मानं (कोपं) मुञ्च (चारुशीलायास्ते अकारणमानोऽयुक्त इति भाव:)। मदनानल: (कामाग्नि:) सपदि (झटिति; तव मान-समकालमेव इत्यर्थ:), मम मानसं दहति; [तस्मात्] मुखकमल-मधुपानं (मुखमेव कमलं पद्मं तस्य मधु तस्य पानं) देहि (अन्तर्दाहस्य पानेनैव शान्ति:, अतो मां मुखपद्ममधु पायय इत्यर्थ:) (ध्रु)॥
[दुरापमिदं दूरेऽस्तु]- यदि किञ्चिदपि वदसि तदा [तव] दन्तरुचिकौमुदी (दन्तानां रुचि: दीप्तिरेव कौमुदी ज्योत्स्ना) [मम] अतिघोरं (भयजनकं) दरतिमिरं (प्रगाढ़ं हृदय-निहितं तिमिरम् अन्धकारं) हरति। [किञ्च] तव वदनचन्द्रमा: (मुखचन्द्र:) स्फुरदधर-सीधवे (स्फुरत: उच्छलितस्य अधरस्य सीधवे अमृताय अमृतपानार्थमित्यर्थ:) [मम] लोचनचकोरं (लोचनं नेत्रमेव चकोरस्तं) रोचयति (साभिलाषं करोति) [नयनस्य चकोरत्वेन त्वदेकजीवनत्वमुक्तम्] ॥1॥
संबंधित लेख
सर्ग | नाम | पृष्ठ संख्या |