विषय सूची
श्रीगीतगोविन्दम् -श्रील जयदेव गोस्वामी
दशम: सर्ग:
चतुरचतुर्भुज:
ऊनविंश: सन्दर्भ:
19. गीतम्
नीलनलिनाभमपि तन्वि तव लोचनं धारयति कोकनद-रूपम्।
|
टीका टिप्पणी और संदर्भ
- ↑ अन्वय- [स्वगुण-परीक्षणोपकरणत्वेन चेन्मामंगीकरोषि तथापि चरितार्थ: स्याम् इत्यत आह]- अयि तन्वि (कृशांगी) नील-नलिनाभमपि (नीलात्पलतुल्यमपि) तव लोचनं [सम्प्रति अभिमानज-रोषात्] कोकनदरूपं (रक्तोत्पलरूपं) धारयति [एतेन त्वयि अनुरञ्जिनी विद्यास्ति इत्यवधारितम्; एषा विद्या मयि परीक्ष्यताम्]; [परीक्षाप्रकारमाह]- यदि [त्वं] कृष्णं (कृष्णरूपं मां) [तेन लोचनेन] कुसुमशरबाणभावेन (कुसुमशरस्य मदनस्य य: सम्मोहनाख्य: बाण: तस्य भाव: उत्पत्ति: यस्मात् तथा भूतेन सानुरागकटाक्षावलोकनेन इत्यर्थ:) रञ्जयसि, [तर्हि] इदं (कार्यमेव) एतदनुरूपं (एतस्य लोचनस्य योग्यं) [स्यात्]; शिक्षिता विद्या प्रयोगेणैव साफल्यं व्रजतीति भाव:] ॥4॥
संबंधित लेख
सर्ग | नाम | पृष्ठ संख्या |