यदड्घ्रिनखचन्द्रांशुमहिमान्तो न विद्यते।
तन्माहात्म्यं कियद्देवि प्रोच्यते त्वं मुदा श्रृणु।।
अनन्तकोटि ब्रह्माण्डे अनन्तत्रिगुणोच्छये।
तत्कलाकोटिकोटयंशा ब्रह्मविष्णुमहेश्वराः।।
सृष्टिस्थित्यादिना युक्तास्तिष्ठन्ति तस्य वैभवाः।
तद्रूपकोटिकोटयंशाः कलाः कन्दर्पविग्रहाः।।
जगन्मोहं प्रकुर्वन्ति तदण्डान्तरसंस्थिताः।
तद्देहविलसत्कान्तिकोटिकोटयंश को विभुः।।
तत्प्रकाशस्य कोटयंशरश्मयो रविविग्रहाः।
तस्य स्वदेहकिरणैः परानन्दरसामृतैः।।
परमामोदचिद्रूपैर्निर्गुणस्यैककारणैः ।
तदंशकोटिकोटयंशा जीवन्ति किरणात्मकाः।।
तदड्घ्रिपंकजद्वन्द्वनखचन्द्रमणिप्रभाः ।
आहुः पूर्णब्रह्मणोअपि कारणं वेददुर्गमम्।।
तदंशसौरभानन्तकोटयंशो विश्वमोहनः।
तत्स्पर्शपुष्पगन्धादिनानासौरभसम्भवः ।।
तत्प्रिया प्रकतिस्त्वाद्या राधिका कृष्णवल्भा।
तत्कलाकोटिकोटयंशा दुर्गाद्यास्त्रिगुणात्मिकाः।।