श्रीमद्भगवद्गीता शांकर भाष्य
तृतीय अध्यायएतद् अपि विरुद्धम्। कथम्, गृहस्थस्य एव स्मार्तकर्मणा समुच्चिताद् ज्ञानाद् मोक्षः प्रतिषिध्यते न तु आश्रमान्तराणाम् इति कथं विवेकिभिः शक्यम् अवधारयितुम्। किं च यदि मोक्षसाधनत्वेन स्मार्तानि कर्माणि ऊर्ध्वरेतसां समुच्चीयन्ते तथा गृहस्थस्य अपि इष्यतां स्मार्तैः एव समुच्चयो न श्रौतैः। अथ श्रौतैः स्मार्तैः च गृहस्थस्य आयासबहुल्यं श्रौतं स्मार्तं च बहुदुःखरूपं कर्म शिरसि अरोपितं स्यात्। अथ गृहस्थस्य एव आयासबाहुल्यकारणाद् मोक्षः स्याद् न आश्रमान्तराणां श्रौतनित्यकर्म रहितत्वाद् इति। तद् अपि असत्। सर्वोपनिषत्सु इतिहास- पुराणयोगशास्त्रे च ज्ञानांगत्वेन मुमुक्षोः सर्व- कर्मसन्न्यासविधानाद् आश्रमविकल्पसमुच्चय- विधानात् श्रुतिस्मृत्योः। सिद्धः तर्हि सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयः। न, मुमुक्षोः सर्वकर्मसन्न्यासविधानात्। उ.- यह भी विरुद्ध है; क्योंकि ‘गृहस्थ के लिए ही केवल स्मार्त कर्म के साथ मिले हुए ज्ञान से मोक्ष का प्रतिषेध किया है, दूसरे आश्रम वालों के लिए नहीं’- यह विचारवान् मनुष्य कैसे मान सकते हैं? |
टीका टिप्पणी और संदर्भ
संबंधित लेख
क्रम संख्या | अध्याय | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज