|
श्रीरासपञ्चाध्यायी लीला
- परिवेषयन्त्यस्तद्धित्वा पाययन्त्यः शिशून् पयः।
- शुश्रूषन्त्यः पतीन् काश्चिदश्नन्त्योऽपास्य भोजनम्।।6।।
- लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने।
- व्यत्यस्तवस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः।।7।।
- ता वार्यमाणाः पतिभिर्भ्रतृबन्धुभिः ।
- गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः।।8।।
- अन्तर्गृहगताः काश्चिद गोप्योऽलब्धविनिर्गमाः।
- कृष्णं तद्भावनायुक्ता दुध्युर्मीलितलोचनाः ।।9।।
- दुःसहप्रेष्ठिविरह तीव्रतापधुताशुभाः ।
- ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमंगलाः ।।10।।
|
|