विषय सूची
श्रीगीतगोविन्दम् -श्रील जयदेव गोस्वामी
दशम: सर्ग:
चतुरचतुर्भुज:
ऊनविंश: सन्दर्भ:
19. गीतम्
परिहर कृतातंके! शंका त्वया सततं घन |
टीका टिप्पणी और संदर्भ
- ↑ अन्वय- [अपरमपि कृत्यं विज्ञापयितुमाह]- अयि कृतातंके (कृत: आतंक: सन्देह: अन्यस्त्रीसम्भोगवितर्क इत्यर्थ: यया तत्सम्बुद्धौ) शंका परिहर (त्यज); सततं (निरन्तरं नतु क्षणमिति भाव:) घनस्तनजघनया (घनं निविड़ं स्तनजघनं यस्या: तादृश्या) [त्वया] क्रान्ते (निरन्तरं व्याप्ते) [अत:] परानवकाशिनि (अन्यावकाश-शून्ये) स्वान्ते (मदीये मनसि) वितनो: (तनुशून्यात् कामात्) अन्य: कोऽपि धन्य: (तादृक् सौभाग्यवान्) अन्तरं (अभ्यन्तरं) न विशति [मनोद्वारेणैव एतदभ्यन्तरं प्रविश्यते मनस्तु मे त्वया परिव्याप्तं तर्हि केन पथा प्रवेष्टव्यमन्येन शरीरिणा जनेन, कामस्तु मनोभव: अतस्तत्र तस्यैव प्रवेशे धिकारो स्तीत्यर्थ:]; [शंका त्यक्त्वा यत्र कर्त्तव्यं तदाह]- हे प्रणयिनि परीरम्भारम्भे (परीरम्भस्य आश्लेषस्य आरम्भे उपक्रमे) विधेयतां (इतिकर्त्तव्यतां) विधेहि (व्यवस्थापय) ॥1॥
संबंधित लेख
सर्ग | नाम | पृष्ठ संख्या |