विषय सूची
श्रीगीतगोविन्दम् -श्रील जयदेव गोस्वामी
दशम: सर्ग:
चतुरचतुर्भुज:
ऊनविंश: सन्दर्भ:
19. गीतम्
स्मर-गरल-खण्डनं मम शिरसि मण्डनं देहि पद-पल्लवमुदारम्। |
टीका टिप्पणी और संदर्भ
- ↑ मदनकदनारून: हति क्वचित; कामक्लेश एव दारुणोऽरुण: सूर्य: मयि ज्वलतिव्यर्थ:।
- ↑ अन्वय- [अतस्तदंगीकारेणैव मे तापोपशमनमिति तद्गुण-स्फुर्त्तिपरवश: सन् प्रार्थयते]- [अयि प्राणेश्वरि] मम शिरसि (मदीयमस्तके) स्मरगरलखण्डनं (काम-कालकूट-दमनं) उदारं (वाञ्छितप्रदत्वात् महत्) मण्डनं (भूषणरूपं) पदपल्लवं देहि (अर्पय); दारुण: (भीषण:) मदनकदनानल: (कामसन्तापाग्नि:) मयि ज्वलति; तदुपाहित-विकारं (तेन मदनतापानलेन उपाहित: उत्पादित: विकार: तम्) [ममेति शेष:] हरतु (शमयतु) [पदपल्लवधारण-मात्रेणैव तापो पयास्यतीति भाव:] ॥7॥
संबंधित लेख
सर्ग | नाम | पृष्ठ संख्या |