विषय सूची
श्रीगीतगोविन्दम् -श्रील जयदेव गोस्वामी
दशम: सर्ग:
चतुरचतुर्भुज:
ऊनविंश: सन्दर्भ:
19. गीतम्
स्थल-कमलगञ्जनं मम हृदय-रञ्जनं जनित-रति-रंगपर भागम्।
|
टीका टिप्पणी और संदर्भ
- ↑ अन्वय- हे मसृणवाणि (स्निग्धभाषिणि) भण (कथय, आज्ञापय इत्यर्थ:); स्थल-कमल-गञ्जनं (स्थलकमलानां स्थलपद्मानां गञ्जनं तिरस्कारकम् आरक्तत्त्वात् कोमलत्वाच्च) मम हृदयरञ्जनं (हृदयरञ्जनं) (हृदयपरितोषकरं) जनित-रति-रंग-परभागं (जनित: कृत: रतिरंगे सुरतोत्सवे परभाग: परमशोभा येन तादृशं) तव चरणद्वयं (पादयुगलं) सरस-लसदलक्तक-रागं (सरसेन आर्द्रेण लसता दीप्तिमता उज्ज्वलेन इत्यर्थ: अलक्तकेन रागं लौहित्यं यत्र तादृशं सुरञ्जितमित्यर्थ:) करवाणि (विदधामि) ॥6॥
संबंधित लेख
सर्ग | नाम | पृष्ठ संख्या |