|
श्रीरासपञ्चाध्यायी लीला
- प्रथम अध्याय
(श्लोक)
- समाजी-
- भगवानपि ता रात्रीः शरोदत्फुल्लमल्लिकाः ।
- वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ।।1।।
- तदोडुराजः ककुभः करैर्मुखं प्राच्या विलिम्पन्नरुणेन शंतमैः ।
- स चर्षणीनामुदगाच्छुचो मृजन्, प्रियः प्रियाया इव दीर्घदर्शनः ।।2।।
- दृष्टवा कुमुद्वन्तमखण्डमण्डलं रमाननाभं नवकुंकमारुणम्।
- वनं च तत्कोमलगोभिरञ्जितं जगौ कलं वामदृशां मनोहरम।।3।।
- निशम्य गीतं तदनंगवर्धनं व्रजस्त्रियः कृष्णगृहीतमानसाः।
- आजग्मुरन्योन्यमलक्षितोद्यमाः स यत्र कान्तो जवलोलकुण्डलाः।।4।।
- दुहन्योऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः।
- पयोऽधिश्रित्य संयावमनुद्वास्यापरा ययुः।।5।।
|
|